रुद्र सूक्त – Rudra Suktam pdf, रुद्र सूक्त के लाभ

रुद्र सूक्त – Rudra Suktam pdf, रुद्र सूक्त के लाभ
कोई भी सूक्त मात्र किसी १ वेद का भाग नहीं होता है। किञ्चित अंतर से अन्य वेदों में भी देखने को मिलता है।
वेदों में रुद्र अर्थात भगवान शंकर की स्तुतियों की ऋचायें रुद्र सूक्त कहलाती है।
यजुर्वेद के अध्याय १६ में भगवान शिव की स्तुति के ६६ ऋचायें हैं जिन्हें रुद्रसूक्त कहा जाता है।
रुद्र सूक्त में भगवान शिव की महानता, स्वरूप, कार्यों एवं नामों का विस्तृत वर्णन किया गया है।
कुल ६६ ऋचाओं में से १६ ऋचायें विशेष महत्वपूर्ण है।
भगवान शंकर की पूजा/अभिषेक रुद्रसूक्त से करना अधिक फलकारी होता है।

रुद्र सूक्त के लाभ
रुद्रसूक्त पाठ के कई लाभ होते हैं :

भगवान शंकर दुःखों, पापों, तापों का नाश करते हैं इसलिये उनका नाम रुद्र है। रुद्रसूक्त भगवान शिव की वेदोक्त स्तुति है जिसका पाठ दुःख, संकट, पाप, ताप आदि का निवारण करता है।
रुद्रसूक्त पाठ करने वाले भक्तों के शत्रुओं (काम/क्रोध/लोभ/मोह आदि) का भगवान शिव विनाश करते हैं, साथ ही भौतिक शत्रुओं पर भी विजय प्रदान करते हैं।
रुद्रसूक्त पाठ करने से पापों का शमन होता है।
रुद्रसूक्त पाठ करने से भय का निवारण होता है।
रुद्रसूक्त पाठ करने वाला भगवान शिव का प्रिय होता है।
रुद्रसूक्त पाठ करने वाला निर्मल होकर सद्गति प्राप्त करता है।
रुद्र सूक्त के १६ मंत्र

रुद्रसूक्त के ६६ मंत्रों में से भी प्रारम्भ के १६ मंत्र विशेष महत्वपूर्ण हैं और इन १६ ऋचाओं का नाम भी रुद्रसूक्त ही है।
भगवान शिव की पूजा १६ मंत्रों वाले रुद्रसूक्त से की जाती है।
यदि सम्पूर्ण रुद्रसूक्त पाठ करने का समय न हो तो १६ मंत्रों वाले रुद्रसूक्त से भी अभिषेक किया जा सकता है।
शुक्ल यजुर्वेद के सोलहवें अध्याय का प्रारम्भिक १६ मंत्र वाला रुद्रसूक्त १६ कलाओं का भी सम्पूर्ण बोध कराता है।
रुद्र सूक्त पंचम अध्याय
यद्यपि शुक्ल यजुर्वेद के सोलहवें अध्याय का नाम रुद्रसूक्त है किन्तु इसे पंचम अध्याय के नाम से भी जाना जाता है क्योकि रुद्राष्टाध्यायी में यह पांचवां अध्याय है।

रुद्रसूक्त
ॐ नमस्ते रुद्द्र मन्न्यव ऽउतो त ऽइषवे नमः । बाहुब्भ्यामुत ते नमः ॥१॥

या ते रुद्द्र शिवा तनूरघोराऽपापकाशिनी । तयानस्तन्न्वाशन्तमया गिरिशन्ताभिचाकशीहि ॥२॥

यामिषुङ्गिरिशन्तहस्ते बिभर्ष्ष्यस्तवे । शिवाङ्गिरित्रताङ्कुरुमा हि ᳪ सीः पुरुषञ्जगत् ॥३॥

शिवेनव्वचसात्त्वागिरिशाच्छाव्वदामसि । यथा नः सर्व्वमिज्जगदयक्ष्म ᳪ सुमनाऽअसत् ॥४॥

अद्धयवोचदधिवक्क्ताप्प्रथमोदैव्व्योभिषक्।अहीँश्च्चसर्व्वाञ्जभयन्त्सर्व्वाश्च्चयातुधान्न्योऽधराचीः परासुव॥५॥

असौयस्ताम्म्रोऽअरुणऽउतबब्भ्रुः सुमङ्गलः । ये चैन ᳪ रुद्द्राऽअभितोदिक्षुश्रिताः सहस्रशोऽवैषा ᳪ हेडऽईमहे ॥६॥

असौ योऽवसर्प्पति नीलग्ग्रीवो व्विलोहितः। उतैङ्गोपाऽअदृश्श्रन्नदृश्श्रन्नुदहार्य्यः सदृष्टो मृडयातिनः ॥७॥

नमोऽस्तु नीलग्ग्रीवाय सहस्राक्षायमीढुषे। अथोये ऽअस्य सत्त्वानोऽहन्तेब्भ्योऽकरन्नमः ॥८॥

प्प्रमुञ्चधन्न्वनस्त्वमुभयोरार्त्क्ज्याम्। याश्च्च तेहस्तऽइषवः पराता भगवोव्वप ॥९॥

व्विज्ज्यन्धनुः कपर्द्दिनो व्विशल्ल्यो बाणवाँ२ ऽउत । अनेशन्नस्ययाऽइषवऽआभुरस्यनिषङ्गधिः ॥१०॥

याते हेतिर्म्मीढुष्ट्टमहस्ते बभूव ते धनुः। तयास्म्मान्निवश्श्वतस्त्वमयक्ष्म्मया परिभुज ॥११॥

परि ते धन्न्वनोहेतिरस्म्मान्न्व्वृणक्तु व्विश्श्वतः। अथोयऽइषुधिस्तवारेऽअस्म्मन्निधेहितम् ॥१२॥

अवतत्त्य धनुष्ट्व ᳪ सहस्राक्षशतेषुधे। निशीर्य्यशल्ल्यानाम्मुखा शिवोनः सुमना भव ॥१३॥

नमस्तऽआयुधायानातताय धृष्ष्णवे। उभाब्भ्यामुतते नमो बाहुब्भ्यान्तव धन्न्वने ॥१४॥

मानोमहान्तमुतमानोऽअर्ब्भकम्मानऽउक्षन्तमुतमानऽउक्षितम् । मानोव्वधीः पितरम्मोतमातरम्मानः प्प्रियास्तन्न्वो रुद्द्ररीरिषः ॥१५॥

मानस्तोकेतनये मानऽआयुषिमानो गोषुमानोऽअश्वेषुरीरिषः। मानोव्वीरान्न्रुद्द्रभामिनोव्वधीर्हविष्म्मन्तः सदमित्त्वा हवामहे ॥१६॥

नमोहिरण्ण्यबाहवे सेनान्न्ये दिशाञ्चपतये नमोनमो व्वृक्षेब्भ्यो हरिकेशेब्भ्यः पशूनाम्पतये नमोनमः शष्प्पिञ्जरायत्त्विषीमते पथीनाम्पतये नमोनमो हरिकेशायोपवीतिने पुष्ट्टानाम्पतये नमोनमो बब्भ्लुशाय ॥१७॥

नमो बब्भ्लुशाय व्व्याधिनेऽन्नानांपतये नमोनमो भवस्यहेत्यै जगताम्पतये नमोनमो रुद्रायाततायिने क्षेत्राणाम्पतये नमोनमः सूतायाहन्त्यै व्वनानाम्पतये नमोनमो रोहिताय ॥१८॥

नमो रोहितायस्थपतये व्वृक्षाणाम्पतये नमोनमो भुवन्तये व्वारिवस्कृतायौषधीनाम्पतये नमोनमो मन्त्रिणे व्वाणिजायकक्षाणाम्पतये नमोनमऽउच्चैर्घोषाया क्क्रन्दयते पत्तीनाम्पतये नमोनमः कृत्स्नायतया ॥१९॥

नमः कृत्स्नायतया धावते सत्त्वनाम्पतये नमोनमः सहमानायनिव्व्याधिनऽआव्व्याधिनीनाम्पतये नमोनमो निषङ्गिणे ककुभायस्तेनानाम्पतये नमोनमो निचेरवे परिचरायारण्ण्यानाम्पतये नमोनमो वञ्चते ॥२०॥

नमो वञ्चते परिवञ्चतेस्तायूनाम्पतये नमोनमो निषङ्गिणऽइषुधिमते तस्क्कराणाम्पतये नमोनमः सृकायिब्भ्यो जिघा ᳪ सद्ब्भ्योमुष्णताम्पतये नमोनमो ऽसिमद्ब्भ्योनक्क्तञ्चरद्ब्भ्यो व्विकृन्तानाम्पतये नमः ॥२१॥

नमऽउष्ष्णीषिणे गिरिचराय कुलुञ्चानाम्पतये नमोनम ऽइषुमद्ब्भ्यो धन्न्वायिब्भ्यश्च वो नमोनमऽआतन्न्वानेब्भ्यः प्रतिदधानेब्भ्यश्च वोनमोनमऽआयच्छद्ब्भ्योऽस्यद्ब्भ्यश्चवो नमोनमो व्विसृजद्ब्भ्यः॥२२॥

नमो व्विसृजद्ब्भ्यो व्विद्धयद्ब्भ्यश्च वो नमोनमः स्वपद्ब्भ्यो जाग्रद्ब्भ्यश्च वो नमोनमः शयानेब्भ्यऽआसीनेब्भ्यश्च वो नमोनमस्तिष्ठद्ब्भ्यो धावद्ब्भ्यश्च वो नमोनमः सभाब्भ्यः ॥२३॥

नमः सभाब्भ्यः सभापतिब्भ्यश्च वो नमोनमो ऽश्वेब्भ्यो ऽश्वपतिब्भ्यश्च वो नमोनम ऽआव्व्याधिनीब्भ्यो व्विविद्धयन्तीब्भ्यश्च वो नमोनम उगणाब्भ्यस्तृ ᳪ हतीब्भ्यश्च वो नमोनमो गणेब्भ्यः ॥२४॥

नमो गणेब्भ्यो गणपतिब्भ्यश्च वो नमोनमो व्व्रातेब्भ्यो व्व्रातपतिब्भ्यश्च वो नमोनमो गृत्सेब्भ्यो गृत्सपतिब्भ्यश्च वो नमोनमो व्विरूपेब्भ्यो व्विश्वरुपेब्भ्यश्च वो नमोनमः सेनाब्भ्यः ॥२५॥

नमः सेनाब्भ्यः सेनानिब्भ्यश्च वो नमोनमो रथिब्भ्यो ऽअरथेब्भ्यश्च वो नमोनमः क्षत्तृब्भ्यः संग्रहीतृब्भ्यश्च वो नमोनमो महद्ब्भ्यो ऽअर्ब्भकेब्भ्यश्च्च वो नमः ॥२६॥

नमस्तक्षब्भ्यो रथकारेब्भ्यश्च वो नमोनमः कुलालेब्भ्यः कर्म्मारेब्भ्यश्च वो नमोनमो निषादेब्भ्यः पुञ्जिष्ट्ठेब्भ्यश्च वो नमोनमः श्वनिब्भ्योमृगयुब्भ्यश्च वो नमोनमः श्वब्भ्यः ॥२७॥

नमः श्वब्भ्यः श्वपतिब्भ्यश्च वो नमोनमो भवाय च रुद्राय च नमः शर्व्वाय च पशुपतये च नमो नीलग्ग्रीवाय च शितिकण्ठाय च नमः कपर्द्दिने ॥२८॥

नमः कपर्द्दिने च व्व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्न्वने च नमो गिरिशयाय च शिपिविष्ट्टाय च नमो मीढुष्ट्टमाय चेषुमते च नमो ह्रस्वाय ॥२९॥

नमो ह्रस्वाय च व्वामनाय च नमो बृहते च व्वर्षीयसे च नमो वृद्धाय च सवृधे च नमो ऽग्ग्र्याय च प्रथमाय च नम ऽआशवे ॥३०॥

नमऽआशवे चाजिराजाय च नमः शीग्घ्र्याय च शीब्भ्याय च नमऽऊर्म्म्याय चावस्वन्न्याय च नमो नादेयाय च द्द्वीप्प्याय च ॥३१॥

नमो जयेष्ठ्ठाय च कनिष्ठ्ठाय च नमः पूर्व्वजाय चापरजाय च नमो मद्ध्यमाय चापगल्ब्भाय च नमो जघन्न्याय च बुध्न्याय च नमः सोब्भ्याय ॥३२॥

नमः सोब्भ्याय च प्रतिसर्य्याय च नमो याम्म्याय च क्षेम्म्याय च नमः श्लोक्क्याय चावसान्न्याय च नम उर्व्वर्याय च खल्ल्याय च नमो व्वन्न्याय ॥३३॥

नमो व्वन्न्याय च कक्ष्याय च नमः श्रवाय च प्प्रतिश्रवाय च नम आशुषेणाय चाशुरथाय च नमः शूराय चावभेदिने च नमो बिल्मिने ॥३४॥

नमो बिल्मिने च कवचिने च नमो व्वर्मिणे च व्वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुब्भ्याय चाहनन्न्याय च नमो धृष्ष्णवे ॥३५॥

नमो धृष्ष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च ॥३६॥

नमः स्रुत्याय च पथ्याय च नमः काट्टयाय च नीप्प्याय च नमः कुल्ल्याय च सरस्याय च नमो नादेयाय च व्वैशन्ताय च नमः कूप्प्याय ॥३७॥

नमः कूप्प्याय चावट्टयाय च नमो व्वीद्ध्र्याय चातप्प्याय च नमो मेग्घ्याय च व्विद्द्युत्याय च नमो व्वर्ष्ष्याय चाव्वर्ष्ष्याय च नमो व्वात्त्याय ॥३८॥

नमो व्वात्त्याय च रेष्म्म्याय च नमो व्वास्तव्व्याय च व्वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गवे ॥३९॥

नमः शङ्गवे च पशुपतये च नमऽउग्ग्राय च भीमाय च नमो ऽग्ग्रेव्वधाय च दूरेव्वधाय च नमो हन्त्रे च हनीयसे च नमो व्वृक्षेब्भ्यो हरिकेशेब्भ्यो नमस्ताराय ॥४०॥

नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्क्कराय च नमः शिवाय च शिवतराय च ॥४१॥

नमः पार्य्याय चावार्य्याय च नमः प्प्रत्तरणाय चोत्तरणाय च नमस्तीर्त्थ्याय च कूल्ल्याय च नमः शष्प्याय च फ़ेन्न्याय च नमः सिकत्त्याय ॥४२॥

नमः सिकत्त्याय च प्प्रवाह्य्याय च नमः कि ᳪ शिलाय च क्षयणाय च नमः कपर्द्दिने च पुलस्तये च नम ऽइरिण्ण्याय च प्प्रपत्थ्याय च नमो व्व्रज्ज्याय ॥४३॥

नमो व्व्रज्ज्याय च गोष्ठयाय च नमस्तल्प्प्याय च गेह्य्याय च नमो हृदय्याय च निवेष्प्याय च नमः काट्टयाय च गह्वरेष्ठ्ठाय च नमः शुष्क्क्याय ॥४४॥

नमः शुष्क्क्याय च हरित्याय च नमः पा ᳪ सव्व्याय च रजस्याय च नमो लोप्प्याय चोलप्प्याय च नमऽउर्व्व्याय च सूर्व्व्याय नमः पर्ण्णाय ॥४५॥

नमः पर्ण्णाय च पर्ण्णशदाय च नमऽउद्गुरमाणाय चाभिघ्नते च नमऽआखिदते च प्प्रखिदते च नमऽइषुकृद्ब्भ्यो धनुष्कृद्ब्भयश्च वो नमोनमो वः किरिकेब्भ्यो देवाना ᳪ हृदयेब्भ्यो नमो व्विचिन्न्वत्केब्भ्यो नमो व्विक्षिणत्केब्भ्यो नमऽआनिर्हतेब्भ्यः ॥४६॥

द्द्रापेऽअन्धसस्प्पतेदरिद्द्रनीललोहित । आसाम्प्रजानामेषाम्पशूनाम्माभेर्म्मारोङ्मोचनः किञ्चनाममत् ॥४७॥

इमारुद्द्रायतवसे कपर्द्दिने क्षयद्वीराय प्प्रभरामहेमतीः । यथाषमसद्द्विपदे चतुष्ष्पदे व्विश्व्म्पुष्टङ्ग्रामेऽअस्म्मिन्ननातुरम् ॥४८॥

याते रुद्द्र शिवा तनूः शिवा व्विश्वाहाभेषजी । शिवारुतस्य भेषजी तयानो मृडजीवसे ॥४९॥

परिनोरुद्द्रस्य हेतिर्व्वृणक्क्तु परित्वेषस्य दुर्मतिरघायोः । अवस्त्थिरामघवद्ब्भ्यस्तनुष्ष्वमीड्ढवस्तोकाय तनयाय मृड ॥५०॥

मीढुष्ट्टमशिवतमशिवो नः सुमना भव। परमे व्वृक्षऽआयुधन्निधाय कृत्तिंव्वसानऽआचरपिनाकम्बिब्भ्रदागहि ॥५१॥

व्विकिरिद्द्रव्विलोहित नमस्तेऽअस्तुभगवः। यास्ते सहस्र ᳪ हेतयोऽन्न्यमस्म्मन्निव पन्तुताः ॥५२॥

सहस्राणि सहस्रशोबाह्वोस्तव हेतयः। तासामीशानो भगवः पराचीनामुखाकृधि ॥५३॥

असङ्ख्याता सहस्राणि ये रुद्द्राऽअधिभूम्म्याम्। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥५४॥

अस्म्मिन्न्महत्त्यर्ण्णवेऽन्तरिक्षे भवाऽअधि। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥५५॥

नीलग्ग्रीवाः शितिकण्ठा दिव ᳪ रुद्द्राऽउपश्श्रिताः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥५६॥

नीलग्ग्रीवाः शितिकण्ठाः शर्व्वाऽअधः क्षमाचराः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥५७॥

ये व्वृक्षेषु शष्पिञ्जरा नीलग्ग्रीवा व्विलोहिताः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥५८॥

ये भूतानामधिपतयो व्विशिखासः कपर्द्दिनः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥५९॥

ये पथाम्पथि रक्षयऽऐलबृदाऽआयुर्य्युधः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥६०॥

ये तीर्त्थानि प्प्रचरन्ति सृकाहस्ता निषङ्गिणः। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥६१॥

येन्नेषु व्विविद्ध्यन्ति पात्रेषु पिबतो जनान्। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥६२॥

यऽएतावन्तश्च्च भूया ᳪ सश्च्च दिशो रुद्द्रा व्वितस्त्थिरे। तेषा ᳪ सहस्रयोजनेऽवधन्न्वानि तन्न्मसि ॥६३॥

नमोऽस्तु रुद्द्रेब्भ्यो ये दिवि येषाम्व्वातऽइषवः। तेब्भ्यो दशप्राचीर्द्दश दक्षिणादशप्प्रतीचीर्द्दशोदीचीर्द्दशोर्द्ध्वाः। तेब्भ्यो नमो ऽअस्तु तेनोऽवन्तु तेनो मृडयन्तु ते यन्द्विष्म्मो यश्च्च नो द्वेष्ट्टि तमेषाञ्जम्भेदद्धमः ॥६४॥

नमोऽस्तु रुद्द्रेब्भ्यो येऽन्तरिक्षे येषाम्व्वर्षमिषवः तेब्भ्यो दशप्राचीर्द्दशदक्षिणा दशप्प्रतीचीर्द्दशोदीचीर्द्दशोर्द्ध्वाः। तेब्भ्यो नमो ऽअस्तु तेनोऽवन्तु तेनो मृडयन्तु ते यन्द्विष्म्मो यश्च्च नो द्वेष्ट्टि तमेषाञ्जम्भेदद्धमः ॥६५॥

नमोऽस्तु रुद्द्रेब्भ्यो ये पृथिव्यां येषामन्न मिषवः। तेब्भ्यो दशप्राचीर्द्दशदक्षिणा दशप्प्रतीचीर्द्दशोदीचीर्द्दशोर्द्ध्वाः तेब्भ्यो नमो ऽअस्तु तेनो ऽवन्तु तेनो मृडयन्तु ते यन्द्विष्म्मो यश्च्च नो द्वेष्ट्टि तमेषाञ्जम्भेदद्धमः ॥६६॥

॥ इति शुक्लयजुर्वेदीयअप्रतिरथसूक्तं सम्पूर्णम्॥ शुक्ल यजुर्वेद अध्याय १६

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top