संपूर्ण रुद्राष्टाध्यायी :- रुद्राष्टाध्यायी प्रथम अध्याय – ॥ प्रथमोऽध्यायः ॥

अथ ध्यानम् –
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रवतंसम् ।
रत्नाकल्पोज्ज्वलाङ्गं परशु मृगवराभीतिहस्तं प्रसन्नम् ॥
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानम् ।
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

रुद्राष्टाध्यायी प्रथम अध्याय – ॥ प्रथमोऽध्यायः ॥

ॐ गणानां त्वा गणपति ᳪ हवामहे प्रियाणां त्वा प्रियपति ᳪ हवामहे निधीनां त्वा निधीपति ᳪ हवामहे वसो मम । आहमजानिगर्भधमात्त्वमजासि गर्भधम् ॥१॥

गायत्रीत्रिष्टुब्जगत्यनुष्टुप्पङ्क्त्यासह ॥
बृहत्युष्णिहाककुप्सूचीभिः शम्यन्तु त्वा ॥२॥

द्विपदायाश्चतुष्पदास्त्रिपदायाश्चषट्पदाः ।
विच्छन्दा याश्च सच्छन्दाः सूचीभिः शम्यन्तु त्वा ॥३॥

सहस्तोमाः सहछन्दस ऽआवृतः सहप्रमाः ऽऋषयः सप्तदैव्याः ॥
पूर्वेषां पन्थामनुदृश्य धीरा ऽअन्वालेभिरे रथ्यो न रश्मीन् ॥४॥

यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ॥
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥५॥

येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ॥
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥६॥

यत्प्रज्ञानमुतचेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ॥
यस्मान्न ऽऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥७॥

येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ॥
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥८॥

यस्मिन् ऋचः सामयजू ᳪ षि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः ॥
यस्मिन् चित्त ᳪ सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥९॥

सुषारथिरश्वानिव यन्मनुष्प्यान्नेनीयतेभीशुभिर्वाजिनऽइव ॥
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥१०॥

इति रुद्राष्टाध्यायी प्रथमोऽध्यायः ॥१॥

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top