ध्यानम् - बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् । पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥ अर्धेन्दुमौलिममलाममराभिवन्द्या- मम्भोजपाशसृणिरक्तकपालहस्ताम् । रक्ताङ्गरागरशनाभरणां त्रिनेत्रां ध्याये शिवस्य वनितां मधुविह्वलाङ्गीम् ॥ १ ॐ महाविद्यायै नमः । ॐ जगन्मात्रे नमः । ॐ महालक्ष्म्यै नमः । ॐ शिवप्रियायै नमः । ॐ विष्णुमायायै नमः । ॐ शुभायै नमः । ॐ शान्तायै नमः । ॐ सिद्धायै नमः । ॐ सिद्धसरस्वत्यै नमः । ॐ क्षमायै नमः । १० ॐ कान्तये नमः । ॐ प्रभायै नमः । ॐ ज्योत्स्नायै नमः । ॐ पार्वत्यै नमः । ॐ सर्वमङ्गलायै नमः । ॐ हिङ्गुलायै नमः । ॐ चण्डिकायै नमः । ॐ दान्तायै नमः । ॐ पद्मायै नमः । ॐ लक्ष्म्यै नमः । २० ॐ हरिप्रियायै नमः । ॐ त्रिपुरायै नमः । ॐ नन्दिन्यै नमः । ॐ नन्दायै नमः । ॐ सुनन्दायै नमः । ॐ सुरवन्दितायै नमः । ॐ यज्ञविद्यायै नमः । ॐ महामायायै नमः । ॐ वेदमात्रे नमः । ॐ सुधायै नमः । ३० ॐ धृत्यै नमः । ॐ प्रीतये नमः । var प्रीतिप्रदायै ॐ प्रथायै नमः । ॐ प्रसिद्धायै नमः । ॐ मृडान्यै नमः । ॐ विन्ध्यवासिन्यै नमः । ॐ सिद्धविद्यायै नमः । ॐ महाशक्त्यै नमः । ॐ पृथिव्यै नमः । ॐ नारदसेवितायै नमः । ४० ॐ पुरुहूतप्रियायै नमः । ॐ कान्तायै नमः । ॐ कामिन्यै नमः । ॐ पद्मलोचनायै नमः । ॐ प्रह्लादिन्यै नमः । ॐ महामात्रे नमः । ॐ दुर्गायै नमः । ॐ दुर्गतिनाशिन्यै नमः । ॐ ज्वालामुख्यै नमः । ॐ सुगोत्रायै नमः । ५० ॐ ज्योतिषे नमः । ॐ कुमुदवासिन्यै नमः । ॐ दुर्गमायै नमः । ॐ दुर्लभायै नमः । ॐ विद्यायै नमः । ॐ स्वर्गतये / स्वर्गत्यै नमः । ॐ पुरवासिन्यै नमः । ॐ अपर्णायै नमः । ॐ शाम्बर्यै नमः । ॐ मायायै नमः । ॐ मदिरायै नमः । ६० ॐ मृदुहासिन्यै नमः । ॐ कुलवागीश्वर्यै नमः । ॐ नित्यायै नमः । ॐ नित्यक्लिन्नायै नमः । ॐ कृशोदर्यै नमः । ॐ कामेश्वर्यै नमः । ॐ नीलायै नमः । ॐ भीरुण्डायै नमः । ॐ वह्निवासिन्यै नमः । ॐ लम्बोदर्यै नमः । ७० ॐ महाकाल्यै नमः । ॐ विद्यायै नमः । ॐ विद्येश्वर्यै नमः । ॐ नरेश्वर्यै नमः । ॐ सत्यायै नमः । ॐ सर्वसौभाग्यवर्धिन्यै नमः । ॐ सङ्कर्षण्यै नमः । ॐ नारसिंह्यै नमः । ॐ वैष्णव्यै नमः । ॐ महोदर्यै नमः । ॐ कात्यायन्यै नमः । ८० ॐ चम्पायै नमः । ॐ सर्वसम्पत्तिकारिण्यै नमः । ॐ नारायण्यै नमः । ॐ महानिद्रायै नमः । ॐ योगनिद्रायै नमः । ॐ प्रभावत्यै नमः । ॐ प्रज्ञापारमितायै नमः । ॐ प्रज्ञायै नमः । ॐ तारायै नमः । ॐ मधुमत्यै नमः । ९० ॐ मधवे / मधुवे नमः । ॐ क्षीरार्णवसुधाहारायै नमः । ॐ कालिकायै नमः । ॐ सिंहवाहिन्यै नमः । ॐ ॐकारायै नमः । ॐ वसुधाकारायै नमः । ॐ चेतनायै नमः । ॐ कोपनाकृत्यै नमः । ॐ अर्धबिन्दुधरायै नमः । ॐ धारायै नमः । १०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ धारायै स्वाहा ॥ ध्यानम् - या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रान्विता । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ २ ॐ विश्वमात्रे नमः । ॐ कलावत्यै नमः । ॐ पद्मावत्यै नमः । ॐ सुवस्त्रायै नमः । ॐ प्रबुद्धायै नमः । ॐ सरस्वत्यै नमः । ॐ कुण्डासनायै नमः । ॐ जगद्धात्र्यै नमः । ॐ बुद्धमात्रे नमः । ॐ जिनेश्वर्यै नमः । ११० ॐ जिनमात्रे नमः । ॐ जिनेन्द्रायै नमः । ॐ शारदायै नमः । ॐ हंसवाहनायै नमः । ॐ राजलक्ष्म्यै नमः । ॐ वषट्कारायै नमः । ॐ सुधाकारायै नमः । ॐ सुधोत्सुकायै नमः । var सुधात्मिकायै ॐ राजनीतये नमः । ॐ त्रय्यै नमः । १२० ॐ वार्तायै नमः । ॐ दण्डनीतये नमः । ॐ क्रियावत्यै नमः । ॐ सद्भूतये नमः । ॐ तारिण्यै नमः । ॐ श्रद्धायै नमः । ॐ सद्गतये नमः । ॐ सत्यपरायणायै नमः । ॐ सिन्धवे नमः । ॐ मन्दाकिन्यै नमः । १३० ॐ गङ्गायै नमः । ॐ यमुनायै नमः । ॐ सरस्वत्यै नमः । ॐ गोदावर्यै नमः । ॐ विपाशायै नमः । ॐ कावेर्यै नमः । ॐ शतद्रुकायै नमः । var शतह्रदायै ॐ सरय्वे / सरयवे नमः । ॐ चन्द्रभागायै नमः । ॐ कौशिक्यै नमः । १४० ॐ गण्डक्यै नमः । ॐ शुचये नमः । ॐ नर्मदायै नमः । ॐ कर्मनाशायै नमः । ॐ चर्मण्वत्यै नमः । ॐ देविकायै नमः । var वेदिकायै ॐ वेत्रवत्यै नमः । ॐ वितस्तायै नमः । ॐ वरदायै नमः । ॐ नरवाहनायै नमः । १५० ॐ सत्यै नमः । ॐ पतिव्रतायै नमः । ॐ साध्व्यै नमः । ॐ सुचक्षुषे नमः । ॐ कुण्डवासिन्यै नमः । ॐ एकचक्षुषे नमः । ॐ सहस्राक्ष्यै नमः । ॐ सुश्रोण्यै नमः । ॐ भगमालिन्यै नमः । ॐ सेनायै नमः । १६० ॐ श्रेणये नमः । ॐ पताकायै नमः । ॐ सुव्यूहायै नमः । ॐ युद्धकांक्षिण्यै नमः । ॐ पताकिन्यै नमः । ॐ दयारम्भायै नमः । ॐ विपञ्चीपञ्चमप्रियायै नमः । var विपञ्च्यै, पञ्चमप्रियायै ॐ परापरकलाकान्तायै नमः । var परायै, परकलाकान्तायै ॐ त्रिशक्तये नमः । ॐ मोक्षदायिन्यै नमः । १७० ॐ ऐन्द्र्यै नमः । ॐ माहेश्वर्यै नमः । ॐ ब्राह्म्यै नमः । ॐ कौमार्यै नमः । ॐ कुलवासिन्यै नमः । var कमलासनायै ॐ इच्छायै नमः । ॐ भगवत्यै नमः । ॐ शक्तये नमः । ॐ कामधेन्वे कामधेनवे नमः । ॐ कृपावत्यै नमः । १८० ॐ वज्रायुधायै नमः । ॐ वज्रहस्तायै नमः । ॐ चण्ड्यै नमः । ॐ चण्डपराक्रमायै नमः । ॐ गौर्यै नमः । ॐ सुवर्णवर्णायै नमः । ॐ स्थितिसंहारकारिण्यै नमः । ॐ एकायै नमः । var एकानेकायै ॐ अनेकायै नमः । ॐ महेज्यायै नमः । १९० ॐ शतबाहवे नमः । ॐ महाभुजायै नमः । ॐ भुजङ्गभूषणायै नमः । ॐ भूषायै नमः । ॐ षट्चक्रक्रमवासिन्यै नमः । ॐ षट्चक्रभेदिन्यै नमः । ॐ श्यामायै नमः । ॐ कायस्थायै नमः । ॐ कायवर्जितायै नमः । ॐ सुस्मितायै नमः । २०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सुस्मितायै स्वाहा । ध्यानम् - या श्रीर्वेदमुखी तपः फलमुखी नित्यं च निद्रामुखी नानारूपधरी सदा जयकरी विद्याधरी शङ्करी । गौरी पीनपयोधरी रिपुहरी मालास्थिमालाधरी सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ३ ॐ सुमुख्यै नमः । ॐ क्षामायै नमः । ॐ मूलप्रकृतये नमः । ॐ ईश्वर्यै नमः । ॐ अजायै नमः । ॐ बहुवर्णायै नमः । ॐ पुरुषार्थप्रर्वतिन्यै नमः । ॐ रक्तायै नमः । ॐ नीलायै नमः । ॐ सितायै नमः । २१० ॐ श्यामायै नमः । ॐ कृष्णायै नमः । ॐ पीतायै नमः । ॐ कर्बुरायै नमः । ॐ क्षुधायै नमः । ॐ तृष्णायै नमः । ॐ जरावृद्धायै नमः । var जरायै, वृद्धायै ॐ तरुण्यै नमः । ॐ करुणालयायै नमः । ॐ कलायै नमः । २२० ॐ काष्ठायै नमः । ॐ मुहूर्तायै नमः । ॐ निमेषायै नमः । ॐ कालरूपिण्यै नमः । ॐ सुकर्णरसनायै नमः । var सुवर्णरसनायै ॐ नासायै नमः । ॐ चक्षुषे नमः । ॐ स्पर्शवत्यै नमः । ॐ रसायै नमः । ॐ गन्धप्रियायै नमः । २३० ॐ सुगन्धायै नमः । ॐ सुस्पर्शायै नमः । ॐ मनोगतये नमः । ॐ मृगनाभये नमः । ॐ मृगाक्ष्यै नमः । ॐ कर्पूरामोदधारिण्यै नमः । ॐ पद्मयोनये नमः । ॐ सुकेश्यै नमः । ॐ सुलिङ्गायै नमः । ॐ भगरूपिण्यै नमः । २४० ॐ योनिमुद्रायै नमः । ॐ महामुद्रायै नमः । ॐ खेचर्यै नमः । ॐ खगगामिन्यै नमः । ॐ मधुश्रिये नमः । ॐ माधवीवल्ल्यै नमः । ॐ मधुमत्तायै नमः । ॐ मदोद्धतायै नमः । ॐ मङ्गलायै नमः । var मातङ्ग्यै ॐ शुकहस्तायै नमः । २५० ॐ पुष्पबाणायै नमः । ॐ इक्षुचापिण्यै नमः । ॐ रक्ताम्बरधरायै नमः । ॐ क्षीबायै नमः । ॐ रक्तपुष्पावतंसिन्यै नमः । ॐ शुभ्राम्बरधरायै नमः । ॐ धीरायै नमः । ॐ महाश्वेतायै नमः । ॐ वसुप्रियायै नमः । ॐ सुवेणये / सुवेण्ये नमः । २६० ॐ पद्महस्तायै नमः । ॐ मुक्ताहारविभूषणायै नमः । ॐ कर्पूरामोदनिःश्वासायै नमः । ॐ पद्मिन्यै नमः । ॐ पद्ममन्दिरायै नमः । ॐ खड्गिन्यै नमः । ॐ चक्रहस्तायै नमः । ॐ भुशुण्ड्यै नमः । ॐ परिघायुधायै नमः । ॐ चापिन्यै नमः । २७० ॐ पाशहस्तायै नमः । ॐ त्रिशूलवरधारिण्यै नमः । ॐ सुबाणायै नमः । ॐ शक्तिहस्तायै नमः । ॐ मयूरवरवाहनायै नमः । ॐ वरायुधधरायै नमः । ॐ वीरायै नमः । ॐ वीरपानमदोत्कटायै नमः । ॐ वसुधायै नमः । ॐ वसुधारायै नमः । २८० ॐ जयायै नमः । ॐ शाकम्भर्यै नमः । ॐ शिवायै नमः । ॐ विजयायै नमः । ॐ जयन्त्यै नमः । ॐ सुस्तन्यै नमः । ॐ शत्रुनाशिन्यै नमः । ॐ अन्तर्वत्न्यै नमः । ॐ वेदशक्तये नमः । ॐ वरदायै नमः । २९० ॐ वरधारिण्यै नमः । ॐ शीतलायै नमः । ॐ सुशीलायै नमः । ॐ बालग्रहविनाशिन्यै नमः । ॐ कुमार्यै नमः । var कौमार्यै ॐ सुपर्वायै नमः । var सुपर्णायै ॐ कामाख्यायै नमः । ॐ कामवन्दितायै नमः । ॐ जालन्धरधरायै नमः । ॐ अनन्तायै नमः । ३०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ अनन्तायै स्वाहा । ध्यानम् - या देवी शिवकेशवादिजननी या वै जगद्रूपिणी या ब्रह्मादिपिपीलिकान्तजनतानन्दैकसन्दायिनी । या पञ्चप्रणमन्निलिम्पनयनी या चित्कलामालिनी सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ ४ ॐ कामरूपनिवासिन्यै नमः । ॐ कामबीजवत्यै नमः । ॐ सत्यायै नमः । ॐ सत्यधर्मपरायणायै नमः । var सत्यमार्गपरायणायै ॐ स्थूलमार्गस्थितायै नमः । ॐ सूक्ष्मायै नमः । ॐ सूक्ष्मबुद्धिप्रबोधिन्यै नमः । ॐ षट्कोणायै नमः । ॐ त्रिकोणायै नमः । ॐ त्रिनेत्रायै नमः । ३१० ॐ त्रिपुरसुन्दर्यै नमः । ॐ वृषप्रियायै नमः । ॐ वृषारूढायै नमः । ॐ महिषासुरघातिन्यै नमः । ॐ शुम्भदर्पहरायै नमः । ॐ दीप्तायै नमः । ॐ दीप्तपावकसन्निभायै नमः । ॐ कपालभूषणायै नमः । ॐ काल्यै नमः । ॐ कपालामाल्यधारिण्यै नमः । ३२० ॐ कपालकुण्डलायै नमः । ॐ दीर्घायै नमः । ॐ शिवदूत्यै नमः । ॐ घनध्वनये नमः । ॐ सिद्धिदायै नमः । ॐ बुद्धिदायै नमः । ॐ नित्यायै नमः । ॐ सत्यमार्गप्रबोधिन्यै नमः । ॐ कम्बुग्रीवायै नमः । ॐ वसुमत्यै नमः । ३३० ॐ छत्रच्छायाकृतालयायै नमः । ॐ जगद्गर्भायै नमः । ॐ कुण्डलिन्यै नमः । ॐ भुजगाकारशायिन्यै नमः । ॐ प्रोल्लसत्सप्तपद्मायै नमः । ॐ नाभिनालमृणालिन्यै नमः । ॐ मूलाधारायै नमः । ॐ निराकारायै नमः । ॐ वह्निकुण्डकृतालयायै नमः । ॐ वायुकुण्डसुखासीनायै नमः । ३४० ॐ निराधारायै नमः । ॐ निराश्रयायै नमः । ॐ श्वासोच्छवासगतये नमः । ॐ जीवायै नमः । ॐ ग्राहिण्यै नमः । ॐ वह्निसंश्रयायै नमः । ॐ वह्नितन्तुसमुत्थानायै नमः । var वल्लीतन्तुसमुत्थानायै ॐ षड्रसास्वादलोलुपायै नमः । ॐ तपस्विन्यै नमः । ॐ तपःसिद्धये नमः । ३५० ॐ तापस्यै नमः । ॐ तपःप्रियायै नमः । ॐ तपोनिष्ठायै नमः । ॐ तपोयुक्तायै नमः । ॐ तपसःसिद्धिदायिन्यै नमः । ॐ सप्तधातुमयीर्मूतये नमः । ॐ सप्तधात्वन्तराश्रयायै नमः । ॐ देहपुष्टये नमः । ॐ मनस्तुष्टयै नमः । ॐ अन्नपुष्टये नमः । ३६० ॐ बलोद्धतायै नमः । ॐ ओषधये नमः । ॐ वैद्यमात्रे नमः । ॐ द्रव्यशक्तये नमः । var द्रव्यशक्तिप्रभाविन्यै ॐ प्रभाविन्यै नमः । ॐ वैद्यायै नमः । ॐ वैद्यचिकित्सायै नमः । ॐ सुपथ्यायै नमः । ॐ रोगनाशिन्यै नमः । ॐ मृगयायै नमः । ३७० ॐ मृगमांसादायै नमः । ॐ मृगत्वचे नमः । ॐ मृगलोचनायै नमः । ॐ वागुरायै नमः । ॐ बन्धरूपायै नमः । ॐ वधरूपायै नमः । ॐ वधोद्धतायै नमः । ॐ वन्द्यै नमः । ॐ वन्दिस्तुताकारायै नमः । ॐ काराबन्धविमोचिन्यै नमः । ३८० ॐ शृङ्खलायै नमः । ॐ खलहायै नमः । ॐ विद्युते नमः । var बद्धायै ॐ दृढबन्धविमोचन्यै नमः । var दृढबन्धविमोक्षिण्यै ॐ अम्बिकायै नमः । ॐ अम्बालिकायै नमः । ॐ अम्बायै नमः । ॐ स्वक्षायै नमः । var स्वच्छायै ॐ साधुजनार्चितायै नमः । ॐ कौलिक्यै नमः । ३९० ॐ कुलविद्यायै नमः । ॐ सुकुलायै नमः । ॐ कुलपूजितायै नमः । ॐ कालचक्रभ्रमायै नमः । ॐ भ्रान्तायै नमः । ॐ विभ्रमायै नमः । ॐ भ्रमनाशिन्यै नमः । ॐ वात्याल्यै नमः । ॐ मेघमालायै नमः । ॐ सुवृष्ट्यै नमः । ४०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सुवृष्ट्यै स्वाहा । ध्यानम् - बीजैः सप्तभिरुज्ज्वलाकृतिरसौ या सप्तसप्तिद्युतिः सप्तर्षिर्प्रणताङ्घ्रिपङ्कजयुगा या सप्तलोकार्तिहृत् । काश्मीरप्रवरेशमध्यनगरी प्रद्युम्नपीठे स्थिता देवी सप्तकसंयुता भगवती श्री शारिका पातु नः ॥ ५ ॐ सस्यवर्धिन्यै नमः । ॐ अकारायै नमः । ॐ इकारायै नमः । ॐ उकारायै नमः । ॐ ऐकाररूपिण्यै नमः । ॐ ह्रीङ्कार्यै नमः । ॐ बीजरूपायै नमः । ॐ क्लीङ्कारायै नमः । ॐ अम्बरवासिन्यै नमः । ॐ सर्वाक्षरमयीशक्तये नमः । ४१० ॐ अक्षरायै नमः । ॐ वर्णमालिन्यै नमः । ॐ सिन्दूरारुणवक्त्रायै नमः । var सिन्दूरारुणवर्णायै ॐ सिन्दूरतिलकप्रियायै नमः । ॐ वश्यायै नमः । ॐ वश्यबीजायै नमः । ॐ लोकवश्यविभाविन्यै नमः । ॐ नृपवश्यायै नमः । ॐ नृपैः सेव्यायै नमः । ॐ नृपवश्यकर्यै नमः । ४२० ॐ क्रियायै नमः । var प्रियायै ॐ महिष्यै नमः । ॐ नृपमान्यायै नमः । ॐ नृमान्यायै नमः । ॐ नृपनन्दिन्यै नमः । ॐ नृपधर्ममय्यै नमः । ॐ धन्यायै नमः । ॐ धनधान्यविवर्धिन्यै नमः । ॐ चतुर्वर्णमयीमूर्तये नमः । ॐ चतुर्वर्णैः सुजितायै नमः । ४३० ॐ सर्वधर्ममयीसिद्धये नमः । ॐ चतुराश्रमवासिन्यै नमः । ॐ ब्राह्मण्यै नमः । ॐ क्षत्रियायै नमः । ॐ वैश्यायै नमः । ॐ शूद्रायै नमः । ॐ अवरवर्णजायै नमः । ॐ वेदमार्गरतायै नमः । ॐ यज्ञायै नमः । ॐ वेदविश्वविभाविन्यै नमः । ४४० ॐ अस्त्रशस्त्रमयीविद्यायै नमः । ॐ वरशस्त्रास्त्रधारिण्यै नमः । ॐ सुमेधायै नमः । ॐ सत्यमेधायै नमः । ॐ भद्रकाल्यै नमः । ॐ अपराजितायै नमः । ॐ गायत्र्यै नमः । ॐ सत्कृतये नमः । ॐ सन्ध्यायै नमः । ॐ सावित्र्यै नमः । ४५० ॐ त्रिपदाश्रयायै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ त्रिपद्यै नमः । ॐ धात्र्यै नमः । ॐ सुपर्वायै नमः । ॐ सामगायिन्यै नमः । ॐ पाञ्चाल्यै नमः । ॐ बालिकायै नमः । ॐ बालायै नमः । ॐ बालक्रीडायै नमः । ४६० ॐ सनातन्यै नमः । ॐ गर्भाधारधरायै नमः । ॐ शून्यायै नमः । ॐ गर्भाशयनिवासिन्यै नमः । ॐ सुरारिघातिनीकृत्यायै नमः । var सुरारिघातिन्यै, कृत्यायै ॐ पूतनायै नमः । ॐ तिलोत्तमायै नमः । ॐ लज्जायै नमः । ॐ रसवत्यै नमः । ॐ नन्दायै नमः । ४७० ॐ भवान्यै नमः । ॐ पापनाशिन्यै नमः । ॐ पट्टाम्बरधरायै नमः । ॐ गीतये नमः । ॐ सुगीतये नमः । ॐ ज्ञानलोचनायै नमः । var ज्ञानगोचरायै ॐ सप्तस्वरमयीतन्त्र्यै नमः । ॐ षड्जमध्यमधैवतायै नमः । ॐ मूर्छनाग्रामसंस्थानायै नमः । ॐ स्वस्थायै नमः । ४८० var मूर्छायै ॐ स्वस्थानवासिन्यै नमः । var सुस्थानवासिन्यै ॐ अट्टाट्टहासिन्यै नमः । ॐ प्रेतायै नमः । ॐ प्रेतासननिवासिन्यै नमः । ॐ गीतनृत्यप्रियायै नमः । ॐ अकामायै नमः । ॐ तुष्टिदायै नमः । ॐ पुष्टिदायै नमः । ॐ अक्षयायै नमः । ॐ निष्ठायै नमः । ४९० ॐ सत्यप्रियायै नमः । ॐ प्रज्ञायै नमः । var प्राज्ञायै ॐ लोकेश्यै नमः । var लोलाक्ष्यै ॐ सुरोत्तमायै नमः । ॐ सविषायै नमः । ॐ ज्वालिन्यै नमः । ॐ ज्वालायै नमः । ॐ विषमोहार्तिनाशिन्यै नमः । var विश्वमोहार्तिनाशिन्यै ॐ (शतमार्यै नमः । ॐ महादेव्यै नमः । ॐ वैष्णव्यै नमः । ॐ शतपत्रिकायै नमः ।) ॐ विषारये नमः । ॐ नागदमन्यै नमः । ५०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ नागदमन्यै स्वाहा । ध्यानम् - भक्तानां सिद्धिधात्री नलिनयुगकरा श्वेतपद्मासनस्था लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री । वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता या भवानी नौम्यहं नौम्यहं त्वां हरिहरप्रणतां शारिकां नौमि नौमि ॥ ६ ॐ अमृतोद्भवायै नमः । ॐ भूतभीतिहरारक्षायै नमः । ॐ भूतावेशविनाशिन्यै नमः । ॐ रक्षोघ्न्यै नमः । ॐ राक्षस्यै नमः । ॐ रात्रये नमः । ॐ दीर्घनिद्रायै नमः । ॐ दिवागतये नमः । var निवारिण्यै ॐ चन्द्रिकायै नमः । ५१० ॐ चन्द्रकान्तये नमः । ॐ सूर्यकान्तये नमः । ॐ र्निशाचर्यै नमः । ॐ डाकिन्यै नमः । ॐ शाकिन्यै नमः । ॐ शिष्यायै नमः । ॐ हाकिन्यै नमः । ॐ चक्रवाकिन्यै नमः । ॐ सितासितप्रियायै नमः । ॐ स्वङ्गायै नमः । ५२० ॐ सकलायै नमः । ॐ वनदेवतायै नमः । ॐ गुरुरूपधरायै नमः । ॐ गुर्व्यै नमः । ॐ मृत्यवे नमः । ॐ मार्यै नमः । ॐ विशारदायै नमः । ॐ महामार्यै नमः । ॐ विनिद्रायै नमः । ॐ तन्द्रायै नमः । ५३० ॐ मृत्युविनाशिन्यै नमः । ॐ चन्द्रमण्डलसङ्काशायै नमः । ॐ चन्द्रमण्डलवासिन्यै नमः । ॐ अणिमादिगुणोपेतायै नमः । ॐ सुस्पृहायै नमः । ॐ कामरूपिण्यै नमः । ॐ अष्टसिद्धिप्रदायै नमः । ॐ प्रौढायै नमः । ॐ दुष्टदानवघातिन्यै नमः । ॐ अनादिनिधनापुष्टये नमः । ५४० var अनादिनिधनायै, पुष्टये ॐ चतुर्बाहवे नमः । ॐ चतुर्मुख्यै नमः । ॐ चतुस्समुद्रशयनायै नमः । ॐ चतुर्वर्गफलप्रदायै नमः । ॐ काशपुष्पप्रतीकाशायै नमः । ॐ शरत्कुमुदलोचनायै नमः । ॐ (सोमसूर्याग्निनयनायै नमः । ॐ ब्रह्मविष्णुशिवार्चितायै नमः । ॐ कल्याण्यै, कमलायै नमः । ॐ कन्यायै नमः । ॐ शुभायै नमः । ॐ मङ्गलचण्डिकायै नमः ।) ॐ भूतायै नमः । ॐ भव्यायै नमः । ॐ भविष्यायै नमः । ॐ शैलजायै नमः । ५५० ॐ शैलवासिन्यै नमः । ॐ वाममार्गरतायै नमः । ॐ वामायै नमः । ॐ शिववामाङ्गवासिन्यै नमः । ॐ वामाचारप्रियायै नमः । ॐ तुष्टायै नमः । var तुष्ट्यै ॐ लोपामुद्रायै नमः । ॐ प्रबोधिन्यै नमः । ॐ भूतात्मने नमः । ॐ परमात्मने नमः । ५६० ॐ भूतभाविविभाविन्यै नमः । ॐ मङ्गलायै नमः । ॐ सुशीलायै नमः । ॐ परमार्थप्रबोधिकायै नमः । var परमार्थप्रबोधिन्यै ॐ दक्षिणायै नमः । ॐ दक्षिणामूर्तये नमः । ॐ सुदक्षिणायै नमः । var सुदीक्षायै ॐ हरिप्रियायै नमः । var हरिप्रस्वे ॐ योगिन्यै नमः । ॐ योगयुक्तायै नमः । ५७० ॐ योगाङ्गायै नमः । var योगाङ्ग्यै ॐ ध्यानशालिन्यै नमः । ॐ योगपट्टधरायै नमः । ॐ मुक्तायै नमः । ॐ मुक्तानाम्परमागतये नमः । ॐ नारसिंह्यै नमः । ॐ सुजन्मायै नमः । ॐ त्रिवर्गफलदायिन्यै नमः । ॐ धर्मदायै नमः । ॐ धनदायै नमः । ५८० ॐ कामदायै नमः । ॐ मोक्षदायै नमः । ॐ द्युतये नमः । ॐ साक्षिण्यै नमः । ॐ क्षणदायै नमः । ॐ कांक्षायै नमः । var दक्षायै ॐ दक्षजायै नमः । ॐ कूटरूपिण्यै नमः । ॐ क्रतवे नमः । var ऋतवे ॐ कात्यायन्यै नमः । ५९० ॐ स्वच्छायै नमः । ॐ स्वच्छन्दायै नमः । var सुच्छन्दायै ॐ कविप्रियायै नमः । ॐ सत्यागमायै नमः । ॐ बहिःस्थायै नमः । ॐ काव्यशक्तये नमः । ॐ कवित्वदायै नमः । ॐ मेनापुत्र्यै नमः । ॐ सतीमात्रे नमः । var सत्यै, साध्व्यै ॐ मैनाकभगिन्यै नमः । ६०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ मैनाकभगिन्यै स्वाहा । ध्यानम् - आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशाङ्कुशमदनधनुः सायकैर्विस्फुरन्तीम् । आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीं ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वराणाम् ॥ ७ ॐ तडिते नमः । ॐ सौदामिन्यै नमः । ॐ स्वधामायै नमः । ॐ सुधामायै नमः । ॐ धामशालिन्यै नमः । ॐ सौभाग्यदायिन्यै नमः । ॐ दिवे नमः । ॐ सुभगायै नमः । ॐ द्युतिवर्धिन्यै नमः । ॐ श्रिये नमः । ६१० ॐ कृत्तिवसनायै नमः । ॐ कङ्काल्यै नमः । ॐ कलिनाशिन्यै नमः । ॐ रक्तबीजवधोद्दृप्तायै नमः । var रक्तबीजवधोद्युक्तायै ॐ सुतन्तुवे नमः । ॐ बीजसन्ततये नमः । ॐ जगज्जीवायै नमः । ॐ जगद्बीजायै नमः । ॐ जगत्त्रयहितैषिण्यै नमः । ॐ चामीकररुचये नमः । ६२० ॐ चान्द्र्यीसाक्षयाषोडशीकलायै नमः । ॐ यत्तत्पदानुबन्धायै नमः । ॐ यक्षिण्यै नमः । ॐ धनदार्चितायै नमः । ॐ चित्रिण्यै नमः । ॐ चित्रमायायै नमः । ॐ विचित्रायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ चामुण्डायै नमः । ॐ मुण्डहस्तायै नमः । ६३० ॐ चण्डमुण्डवधोद्धुरायै नमः । var चण्डमुण्डवधोद्यतायै ॐ अष्टम्यै नमः । ॐ एकादश्यै नमः । ॐ पूर्णायै नमः । ॐ नवम्यै नमः । ॐ चतुर्दश्यै नमः । ॐ अमायै नमः । var उमायै ॐ कलशहस्तायै नमः । ॐ पूर्णकुम्भधरायै नमः । ॐ धरायै नमः । ६४० ॐ अभीरवे नमः । ॐ भैरव्यै नमः । ॐ भीमायै नमः । ॐ भीरायै नमः । ॐ त्रिपुरभैरव्यै नमः । ॐ महारुण्डायै नमः । var महाचण्ड्यै ॐ रौद्र्यै नमः । ॐ महाभैरवपूजितायै नमः । ॐ निर्मुण्डायै नमः । ॐ हस्तिन्यै नमः । ६५० ॐ चण्डायै नमः । ॐ करालदशनाननायै नमः । ॐ करालायै नमः । ॐ विकरालायै नमः । ॐ घोरघुर्घुरनादिन्यै नमः । ॐ रक्तदन्तायै नमः । ॐ ऊर्ध्वकेश्यै नमः । ॐ बन्धूककुसुमारुणायै नमः । ॐ कादम्बर्यै नमः । var कादम्बिन्यै ॐ पटासायै नमः । ६६० var विपाशायै ॐ काश्मीर्यै नमः । ॐ कुङ्कुमप्रियायै नमः । ॐ क्षान्तये नमः । ॐ बहुसुवर्णायै नमः । ॐ रतये नमः । ॐ बहुसुवर्णदायै नमः । ॐ मातङ्गिन्यै नमः । ॐ वरारोहायै नमः । ॐ मत्तमातङ्गगामिन्यै नमः । ॐ हिंसायै नमः । ६७० ॐ हंसगतये नमः । ॐ हंस्यै नमः । ॐ हंसोज्ज्वलशिरोरुहायै नमः । ॐ पूर्णचन्द्रमुख्यै नमः । ॐ श्यामायै नमः । ॐ स्मितास्यायै नमः । ॐ श्यामकुण्डलायै नमः । var सुकुण्डलायै ॐ मष्यै नमः । ॐ लेखिन्यै नमः । var लेखन्यै ॐ लेख्यायै नमः । ६८० var लेखायै ॐ सुलेखायै नमः । ॐ लेखकप्रियायै नमः । ॐ शङ्खिन्यै नमः । ॐ शङ्खहस्तायै नमः । ॐ जलस्थायै नमः । ॐ जलदेवतायै नमः । ॐ कुरुक्षेत्रावनये नमः । ॐ काश्यै नमः । ॐ मथुरायै नमः । ॐ काञ्च्यै नमः । ६९० ॐ अवन्तिकायै नमः । ॐ अयोध्यायै नमः । ॐ द्वारिकायै नमः । ॐ मायायै नमः । ॐ तीर्थायै नमः । ॐ तीर्थकरप्रियायै नमः । ॐ त्रिपुष्करायै नमः । ॐ अप्रमेयायै नमः । ॐ कोशस्थायै नमः । ॐ कोशवासिन्यै नमः । ७०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ कोशवासिन्यै स्वाहा । ध्यानम् - प्रातःकाले कुमारी कुमुदकलिकया जप्यमालां जपन्ती मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा विशाला । सन्ध्यायां वृद्धरूपा गलितकुचयुगे मुण्डमालां वहन्ती सा देवी दिव्यदेहा हरिहरनमिता पातु नो ह्यादिमुद्रा ॥ ८ ॐ कौशिक्यै नमः । ॐ कुशावर्तायै नमः । ॐ कौशाम्ब्यै नमः । ॐ कोशवर्धिन्यै नमः । ॐ कोशदायै नमः । ॐ पद्मकोशाक्ष्यै नमः । ॐ कुसुमायै नमः । var कौसुम्भकुसुमप्रियायै ॐ कुसुमप्रियायै नमः । ॐ तोतलायै नमः । ॐ तुलाकोटये नमः । ७१० ॐ कूटस्थायै नमः । ॐ कोटराश्रयायै नमः । ॐ स्वयम्भुवे नमः । ॐ सुरूपायै नमः । ॐ स्वरूपायै नमः । ॐ रूपवर्धिन्यै नमः । var पुण्यवर्धिन्यै ॐ तेजस्विन्यै नमः । ॐ सुभिक्षायै नमः । ॐ बलदायै नमः । ॐ बलदायिन्यै नमः । ७२० ॐ महाकोश्यै नमः । ॐ महावर्तायै नमः । ॐ बुद्धिसदसदात्मिकायै नमः । var बुद्धये, सदसदात्मिकायै ॐ महाग्रहहरायै नमः । ॐ सौम्यायै नमः । ॐ विशोकायै नमः । ॐ शोकनाशिन्यै नमः । ॐ सात्त्विक्यै नमः । ॐ सत्त्वसंस्थायै नमः । ॐ राजस्यै नमः । ७३० ॐ रजोवृतायै नमः । ॐ तामस्यै नमः । ॐ तमोयुक्तायै नमः । ॐ गुणत्रयविभाविन्यै नमः । ॐ अव्यक्तायै नमः । ॐ व्यक्तरूपायै नमः । ॐ वेदविद्यायै नमः । ॐ शाम्भव्यै नमः । ॐ शङ्कराकल्पिनीकल्पायै नमः । var शङ्करायै, कल्पिन्यै, कल्पायै ॐ मनस्सङ्कल्पसन्ततये नमः । ७४० ॐ सर्वलोकमयीशक्तये नमः । var सर्वलोकमय्यै, शक्तये ॐ सर्वश्रवणगोचरायै नमः । ॐ सर्वज्ञानवल्र्वाञ्छायै नमः । var सर्वज्ञानवत्यै, वाञ्छायै ॐ सर्वतत्त्वावबोधिन्यै नमः । var सर्वतत्त्वावबोधिकायै ॐ जागृत्यै नमः । var जाग्रतये ॐ सुषुप्तये नमः । ॐ स्वप्नावस्थायै नमः । ॐ तुरीयकायै नमः । ॐ त्वरायै नमः । ॐ मन्दगतये नमः । ७५० ॐ मन्दायै नमः । ॐ मन्दिरामोदधारिण् नमः । var मन्दिरायै, मोददायिन्यै ॐ पानभूमये नमः । ॐ पानपात्रायै नमः । ॐ पानदानकरोद्यतायै नमः । ॐ आधूर्णारुणनेत्रायै नमः । ॐ किञ्चिदव्यक्तभाषिण्यै नमः । ॐ आशापुरायै नमः । ॐ दीक्षायै नमः । ॐ दक्षायै नमः । ७६० ॐ दीक्षितपूजितायै नमः । ॐ नागवल्ल्यै नमः । ॐ नागकन्यायै नमः । ॐ भोगिन्यै नमः । ॐ भोगवल्लभायै नमः । ॐ सर्वशास्त्रवतीविद्यायै नमः । var सर्वशास्त्रमय्यै, विद्यायै ॐ सुस्मृतये नमः । ॐ धर्मवादिन्यै नमः । ॐ श्रुतये नमः । ॐ श्रुतिधरायै नमः । ७७० var श्रुतिस्मृतिधरायै नमः । ॐ ज्येष्ठायै नमः । ॐ श्रेष्ठायै नमः । ॐ पातालवासिन्यै नमः । ॐ मीमांसायै नमः । ॐ तर्कविद्यायै नमः । ॐ सुभक्तये नमः । ॐ भक्तवत्सलायै नमः । ॐ सुनाभये नमः । ॐ यातनायै नमः । ॐ जातये नमः । ७८० ॐ गम्भीरायै नमः । ॐ भाववर्जितायै नमः । ॐ नागपाशधरामूर्तये नमः । ॐ अगाधायै नमः । ॐ नागकुण्डलायै नमः । ॐ सुचक्रायै नमः । ॐ चक्रमध्यस्थायै नमः । ॐ चक्रकोणनिवासिन्यै नमः । ॐ सर्वमन्त्रमयीविद्यायै नमः । var सर्वमन्त्रमय्यै, विद्यायै ॐ सर्वमन्त्राक्षरावलये नमः । ७९० ॐ मधुस्रवायै नमः । ॐ स्रवन्त्यै नमः । ॐ भ्रामर्यै नमः । ॐ भ्रमरालकायै नमः । ॐ मातृमण्डलमध्यस्थायै नमः । ॐ मातृमण्डलवासिन्यै नमः । ॐ कुमारजनन्यै नमः । ॐ क्रूरायै नमः । ॐ सुमुख्यै नमः । ॐ ज्वरनाशिन्यै नमः । ८०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ ज्वरनाशिन्यै स्वाहा । ध्यानम् - या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ९ ॐ विद्यमानायै नमः । ॐ भाविन्यै नमः । ॐ प्रीतिमञ्जर्यै नमः । ॐ सर्वसौख्यवतीयुक्तायै नमः । ॐ आहारपरिणामिन्यै नमः । ॐ पञ्चभूतानां निधानायै नमः । ॐ भवसागरतारिण्यै नमः । ॐ अक्रूरायै नमः । ॐ ग्रहावत्यै नमः । ८१० ॐ विग्रहायै नमः । ॐ ग्रहवर्जितायै नमः । ॐ रोहिण्यै नमः । ॐ भूमिगर्भायै नमः । ॐ कालभुवे नमः । ॐ कालवर्तिन्यै नमः । ॐ कलङ्करहितायनार्यै नमः । var कलङ्करहितायै, नार्यै ॐ चतुःषष्ठ्यभिधावत्यै नमः । ॐ जीर्णायै नमः । ॐ जीर्णवस्रायै नमः । ८२० ॐ नूतनायै नमः । ॐ नववल्लभायै नमः । ॐ अजरायै नमः । ॐ रतये नमः । var रजःप्रीतायै ॐ प्रीतये नमः । ॐ रतिरागविवर्धिन्यै नमः । ॐ पञ्चवातगतिर्भिन्नायै नमः । var पञ्चवातगतये, भिन्नायै ॐ पञ्चश्लेष्माशयाधरायै नमः । ॐ पञ्चपित्तवतीशक्तये नमः । ॐ पञ्चस्थानविबोधिन्यै नमः । ८३० var पञ्चस्थानविभाविन्यै ॐ उदक्यायै नमः । ॐ वृषस्यन्त्यै नमः । ॐ त्र्यहं बहिःप्रस्रविण्यै नमः । ॐ रजःशुक्रधराशक्तये नमः । ॐ जरायवे नमः । ॐ गर्भधारिण्यै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिलिङ्गायै नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिपुरवासिन्यै नमः । ८४० ॐ अरागायै नमः । ॐ शिवतत्त्वायै नमः । ॐ कामतत्त्वानुरागिण्यै नमः । ॐ प्राच्यै नमः । ॐ अवाच्यै नमः । ॐ प्रतीच्यै नमः । ॐ उदीच्यै नमः । ॐ दिग्विदिग्दिशायै नमः । ॐ अहङ्कृतये नमः । ॐ अहङ्कारायै नमः । ८५० ॐ बलिमालायै नमः । var बालायै, मायायै ॐ बलिप्रियायै नमः । ॐ स्रुचे नमः । var शुक्रश्रवायै (स्रुक्स्रुवायै) ॐ स्रुवायै नमः । ॐ सामिधेन्यै नमः । ॐ सश्रद्धायै नमः । var सुश्रद्धायै ॐ श्राद्धदेवतायै नमः । ॐ मात्रे नमः । ॐ मातामह्यै नमः । ॐ तृप्तये नमः । ८६० ॐ पितृमात्रे नमः । ॐ पितामह्यै नमः । ॐ स्नुषायै नमः । ॐ दौहित्रिण्यै नमः । ॐ पुत्र्यै नमः । ॐ पौत्र्यै नमः । ॐ नप्त्र्यै नमः । ॐ शिशुप्रियायै नमः । ॐ स्तनदायै नमः । ॐ स्तनधारायै नमः । ८७० ॐ विश्वयोनये नमः । ॐ स्तनन्धय्यै नमः । ॐ शिशूत्सङ्गधरायै नमः । ॐ दोलायै नमः । ॐ दोलाक्रीडाभिनन्दिन्यै नमः । ॐ उर्वश्यै नमः । ॐ कदल्यै नमः । ॐ केकायै नमः । ॐ विशिखायै नमः । ॐ शिखिवर्तिन्यै नमः । ८८० ॐ खट्वाङ्गधारिण्यै नमः । ॐ खट्वायै नमः । ॐ बाणपुङ्खानुवर्तिन्यै नमः । ॐ लक्ष्यप्राप्तये नमः । var लक्ष्यप्राप्तिकरायै ॐ कलायै नमः । ॐ अलक्ष्यायै नमः । ॐ लक्ष्यायै नमः । ॐ शुभलक्षणायै नमः । ॐ वर्तिन्यै नमः । ॐ सुपथाचारायै नमः । ८९० ॐ परिखायै नमः । ॐ खनये नमः । ॐ वृतये नमः । ॐ प्राकारवलयायै नमः । ॐ वेलायै नमः । ॐ महोदधौ मर्यादायै नमः । ॐ पोषिणीशक्तये नमः । ॐ शोषिणीशक्तये नमः । ॐ दीर्घकेश्यै नमः । ॐ सुलोमशायै नमः । ९०० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सुलोमशायै स्वाहा । ध्यानम् - रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः । भक्तिश्चेदविनाशिनी भगवती पादद्वयी सेव्यता- मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १० ॐ ललितायै नमः । ॐ मांसलायै नमः । ॐ तन्व्यै नमः । ॐ वेदवेदाङ्गधारिण्यै नमः । ॐ नरासृक्पानमत्तायै नमः । ॐ नरमुण्डास्थिभूषणायै नमः । ॐ अक्षक्रीडारतये नमः । ॐ शार्यै नमः । ॐ शारिकाशुकभाषिण्यै नमः । ॐ शाम्बर्यै नमः । ९१० ॐ गारुडीविद्यायै नमः । ॐ वारुण्यै नमः । ॐ वरुणार्चितायै नमः । ॐ वाराह्यै नमः । ॐ मुण्डहस्तायै नमः । var तुण्डहस्तायै ॐ दंष्ट्रोद्धृतवसुन्धरायै नमः । ॐ मीनमूर्तिर्धरायै नमः । ॐ मूर्तायै नमः । ॐ वदान्यायै नमः । ॐ अप्रतिमाश्रयायै नमः । ९२० ॐ अमूर्तायै नमः । ॐ निधिरूपायै नमः । ॐ शालिग्रामशिलाशुचये नमः । ॐ स्मृतये नमः । ॐ संस्काररूपायै नमः । ॐ सुसंस्कारायै नमः । ॐ संस्कृतये नमः । ॐ प्राकृतायै नमः । ॐ देशभाषायै नमः । ॐ गाथायै नमः । ९३० ॐ गीतये नमः । ॐ प्रहेलिकायै नमः । ॐ इडायै नमः । ॐ पिङ्गलायै नमः । ॐ पिङ्गायै नमः । ॐ सुषुम्नायै नमः । ॐ सूर्यवाहिन्यै नमः । ॐ शशिस्रवायै नमः । ॐ तालुस्थायै नमः । ॐ काकिन्यै नमः । ९४० ॐ अमृतजीविन्यै नमः । ॐ अणुरूपायै नमः । ॐ बृहद्रूपायै नमः । ॐ लघुरूपायै नमः । ॐ गुरुस्थिरायै नमः । var गुरुस्थितायै ॐ स्थावरायै नमः । ॐ जङ्गमायै नमः । ॐ देवायै नमः । ॐ कृतकर्मफलप्रदायै नमः । ॐ विषयाक्रान्तदेहायै नमः । ९५० ॐ निर्विशेषायै नमः । ॐ जितेन्द्रियायै नमः । ॐ विश्वरूपायै नमः । var चित्स्वरूपायै ॐ चिदानन्दायै नमः । ॐ परब्रह्मप्रबोधिन्यै नमः । ॐ निर्विकारायै नमः । ॐ निर्वैरायै नमः । ॐ विरतये नमः । ॐ सत्यवर्द्धिन्यै नमः । ॐ पुरुषाज्ञायै नमः । ९६० ॐ भिन्नायै नमः । ॐ क्षान्तिःकैवल्यदायिन्यै नमः । var क्षान्तये, कैवल्यदायिन्यै ॐ विविक्तसेविन्यै नमः । ॐ प्रज्ञाजनयित्र्यै नमः । var प्रज्ञायै, जनयित्र्यै ॐ बहुश्रुतये नमः । ॐ निरीहायै नमः । ॐ समस्तैकायै नमः । ॐ सर्वलोकैकसेवितायै नमः । ॐ सेवायै नमः । var शिवायै ॐ सेवाप्रियायै नमः । ९७० var शिवप्रियायै ॐ सेव्यायै नमः । ॐ सेवाफलविवर्द्धिन्यै नमः । ॐ कलौ कल्किप्रियाकाल्यै नमः । ॐ दुष्टम्लेच्छविनाशिन्यै नमः । ॐ प्रत्यञ्चायै नमः । ॐ धुनर्यष्टये नमः । ॐ खड्गधारायै नमः । ॐ दुरानतये नमः । ॐ अश्वप्लुतये नमः । ॐ वल्गायै नमः । ९८० ॐ सृणये नमः । ॐ सन्मत्तवारणायै नमः । var सन्मृत्युवारिण्यै ॐ वीरभुवे नमः । ॐ वीरमात्रे नमः । ॐ वीरसुवे नमः । ॐ वीरनन्दिन्यै नमः । ॐ जयश्रियै नमः । ॐ जयदीक्षायै नमः । ॐ जयदायै नमः । ॐ जयवर्द्धिन्यै नमः । ९९० ॐ सौभाग्यसुभगाकारायै नमः । ॐ सर्वसौभाग्यवर्द्धिन्यै नमः । ॐ क्षेमङ्कर्यै नमः । ॐ सिद्धिरूपायै नमः । var क्षेमरूपायै ॐ सर्त्कीर्तये नमः । ॐ पथिदेवतायै नमः । ॐ सर्वतीर्थमयीमूर्तये नमः । ॐ सर्वदेवमयीप्रभायै नमः । ॐ सर्वदेवमयीशक्तये नमः । var सर्वसिद्धिप्रदायै, शक्तये ॐ सर्वमङ्गलमङ्गलायै नमः । १००० तेजोऽसि शुक्रमसि ज्योतिरसि धामासि प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि । ॐ सर्वमङ्गलमङ्गलायै स्वाहा । ॥ इति श्रीरुद्रयामलतन्त्रान्तर्गता श्रीभवानीसहस्रनामावलिः सम्पूर्णा ॥ ॐ शान्तिः शान्तिः शान्तिः ।