।। स्तोत्र ।।
एक ब्रह्मवाद्वितीय समस्तं सत्यं सत्यं नेह नानास्ति किञ्चित्।
एको रुद्रो न द्वितीयोऽवतस्थे तस्मादेक त्वां प्रपद्ये महेशम् ।। १।।
एक: कर्ता हि विश्वस्य शम्भो नाना रूपेष्वेकरूपोऽस्परूपः।
यद्वत्प्रत्यस्वर्क एको ऽप्यनेकस्तस्मान्नान्यं विनेश प्रपद्ये।।२।।
रज्जौ सर्पः शुक्तिकायां च रूप्यं नैरः पुरस्तन्मृगाख्ये मरीची।
यत्तद्वद् विश्वगेष प्रपञ्चो यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ||३||
तोये शैत्यं दाहकत्वं च वहन तापो मानौ शीतभानी प्रसादः।
पुष्पे गन्धों दुग्धमध्ये च सर्पिर्यत्तच्छम्भो त्वं ततस्त्वां प्रपद्ये ॥ ४ ॥
शब्द गृहणास्यश्रवास्त्वं हि जिधेरप्राणस्त्वं व्यंनिरायासि दूरात्।
व्यक्षः पश्यैस्त्वं रसज्ञोऽप्यजिह्वः करत्वां सम्यग् वेत्त्यतस्त्वां प्रपद्ये ।। ५ ।।
नो वेदस्त्वामीश साक्षादि वेद नो या विष्णुनों विधाताखिलस्य।
नो योगीन्द्रा नेन्द्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वा प्रपद्ये ॥ ६ ॥
नो ते गोत्र नेश जन्मापि नाख्या नो वा रूपं नैव शील न देशः।
इत्यंभूतोऽपीश्वरस्तवं त्रिलोक्याः सर्वान् कामान् पूरयेस्तद् भजे त्वाम् ।।७।।
त्वत्तः सर्व त्वं हि सर्व स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशान्तः।
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं नास्यतस्त्वां नतोऽस्मि ।।८।।