एकं ब्रह्मैवद्वितीयं समग्रं सत्यं सत्यं नेह नानास्ति किंचित्। एको रुद्रो न द्वितीयाय तस्थे तस्मादेकं त्वां प्रपद्ये सदाहम् ॥ ॥ वर प्रपद्ये महेशम्
एकः कर्ता त्वं हि सर्वस्य शम्भो नाना रूपेषु एकरूपोऽसि अरूपः। यद्वत् प्रत्यपसु अर्कः एकोऽपि अनेकः तस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ 2॥
रज्जौ सर्पः शुक्तिकायां च रूप्यं नरः पुरः तन्मृगाखये मरीचौ। यद्वत् तद्वत् विश्वक् एषः प्रपञ्चः यस्मिन् ज्ञाते तं प्रपद्ये महेशं ॥ 3॥
तोये सत्यं दाहक्त्वं च वह्नौ तापो भानौ शीत भानौ प्रसादः। पुष्पे गंधः दुग्ध मध्येऽपि सर्पिः यत्तत् शम्भो त्वं ततः त्वं प्रपद्ये ॥ 4॥
शब्दं घृणसि अश्रवाः त्वं हि जिघ्रेः अग्रणः त्वं व्यंघृः आयसि दूरात्। व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः कः त्वां सम्यक् वेति मूलतः त्वां प्रपद्ये ॥ 5॥
नो वेद त्वां ईश साक्षात् विवेद नो वा विष्णुः नो विधाताऽखिलस्य। नो योगिन्द्रः नेन्द्र मुख्यश्च देवाः भक्तो वेदत्वं अतस्त्वं प्रपद्ये ॥ 6॥
नो ते गोत्रं नेश जन्मापि नाख्या नव रूपं नैव शीलं न तेजः। इत्थं भूतोऽपि ईश्वरः त्वं त्रिलोक्यः सर्वान् कामां पूरयेः तत् भजेहम्॥ 7॥
त्वत्तः सर्वं त्वहि सर्वं स्मरारे त्वं गौरीशः त्वं च नग्नः अतिशांतः। त्वं वै वृद्धः त्वं युवा त्वं च बालः तत्त्वं यत्किं नासि मूलतः त्वां नतोऽस्मि ॥ 8॥